इदङ्कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे। नानाशास्त्रनदीष्णेभ्यो विद्वद्भ्योऽपि नमो नमः ॥
शास्वार्थपरिचर्चायां दक्षाश्शाणाश्च दुर्लभाः। नूतनार्थपरिष्कारे शोधकार्येऽतिदुर्लभाः ॥
गहने शास्त्रमार्गेऽस्मिन् नव्यन्याये सुदुर्गमे। यथामति नवोन्मेषात् सुगमत्वं प्रसाधये ॥
प्राच्यप्रतीच्यविद्यायाः पारं प्राप्तास्सुमेधसः। जरद्विद्वद्वरीयांसः विदाङ्कुर्वन्तु मे श्रमम्॥
नव्यन्यायपरिच्छिन्नां भाषां शास्त्रप्रवृत्तये। शास्त्राध्वप्रविविक्षूणां यथाशास्त्रं निरूपये।।
सर्वथाऽभिनवं मार्ग रेखाङ्कनविधाङ्कितम् । समाश्रित्य च पन्थानं पाश्चात्यविबुधाञ्चितम्।।
पूर्वपश्चिमयोद्वारं समुद्घाट्य करोम्यहम्। मिथस्संवादफलदं सेतुबन्धप्रयासनम्।
एतस्य ग्रन्थस्य प्रणयने मम किमर्थं प्रवृत्तिर्जाता इति किञ्चिन्निवेदयामि। सम्प्रति भारते सर्वेष्वपि विद्याक्षेत्रेष्वन्तः क्षेत्रीयमध्ययनं विशिष्टं स्थानं भजते। भारतीयप्राचीनशास्त्राण्यधिकृत्याधुनिकविचारप्रणाल्या पुनश्चि-न्तनं पाश्चात्यैः बहुकालात्पूर्वमेव समारब्धम्। तयैव दिशा भारतीयैरपि आधुनिकैर्विद्वद्भिः बहवः प्रयासाः विहिताः। तेन प्राच्यप्रतीच्यशास्त्रविचा-रधारयोर्मध्ये संवादस्य, मिथो विमर्शस्य तौलनिकमध्ययनस्य, परस्परं विषयविनिमयस्य चावसरः प्राप्तः। गच्छता कालेन अन्तःक्षेत्रीयमध्यय-नमन्तरा कस्यापि शास्त्रस्य पुरोगतिः नैव शक्या इति साम्प्रतिकी स्थितिः।
पाश्चात्यभारतीयतर्कशास्त्रमपि स्वीकृत्य अस्मिन्नेव विचारमार्गे विद्वांसः प्रवृत्ताः। तत्रापि विशिष्य परिभाषाजटिलस्य अत एव बहुपरिश्रममात्रेण शक्यावगाहस्य शास्वस्यास्य सरलैः मार्गेरुपावेश्य बोधनार्थ ग्रहणार्थञ्च साधनान्याविष्कृतानि। अन्यूनानतिरेकेणातिसूक्ष्माणां गभीराणां विषयाणां ज्ञानार्थं प्रतिपादनार्थञ्च रेखाचित्रणपद्धतिरपि समाश्रिता। प्रायशः मम गुरुकुलपद्धत्या शास्त्राध्ययनोत्तरमाधुनिकसंवादशालायां प्राप्तावकाशेन मया आधुनिकशिक्षाप्रणाल्यः समवलोकिताः। गुरुकुलपद्धतेः मौखिक-शिक्षायामाधुनिकपद्धतेः लेखाश्रितशिक्षायाञ्च विद्यमानान् गुणान् स्वीकृत्य विनूतना शिक्षाधारा समारम्भणीया इति कश्चित् सङ्कल्पः उदितः। परन्तु ततःपूर्वमेव बहुभिर्विद्वद्भिः विशिष्य पुण्यपत्तने प्रो. वशिष्ठनारायणझा (Prof. V. N. Jha) महाभागैः, कोलकत्तायां शिवजीवनभट्टाचार्यसदृशैरन्यैरपि विद्वद्भिरस्यां दिशि बहूनि पदानि पुरतः स्थापितानि। सर्वमेतत् सङ्कलय्य प्रो. विनीतचैतन्यमहोदयानां मार्गदर्शने डा. अम्बाकुलकर्णी-महोदयया सङ्गणकशास्त्रं गणितशास्त्रमपि मनसिकृत्य इतोऽपि परिष्कृतः नूतनः न्यायभाषारेखाङ्कनपन्थाः प्रस्तुतः।
तत ऊर्ध्वं नव्यन्यायभाषायाः पाश्चात्यतर्कभाषायाश्च ज्ञाननिरूपण-पद्धतिं केन्द्रीकृत्य मया शोधकार्य विहितम्। तदङ्गतया उभयोः परिभाषयोः सेतुबन्धप्रयासश्च कृतः। तदवसरे दृष्टिलब्धानां समानतन्त्र-विषयाणामध्यापनार्थं सरलचित्रप्रणाली काचित् परिष्कृता। सा चास्मिन् प्रकरणे प्रस्तूयते ।
Astrology (112)
Ayurveda (102)
Gita (71)
Hinduism (1254)
History (141)
Language & Literature (1635)
Learn Sanskrit (26)
Mahabharata (28)
Performing Art (64)
Philosophy (419)
Puranas (120)
Ramayana (50)
Sanskrit Grammar (246)
Sanskrit Text Book (33)
Send as free online greeting card
Email a Friend
Manage Wishlist