'धेनुमानस' इति देवभाषापुटितोऽवधभाषाभाषितो गोमातुरहैतकीकृपाप्रसूतो दिव्यग्रन्थः सर्वमान्यो ज्ञेयः। यथा 'गोस्तु मात्रा न विद्यते' तद्वगन्यस्यास्य माहात्म्यगुरुत्वमपि वर्णनातीतम्। एतस्य दिव्यग्रन्थस्य स्वनामधन्यरचयिता सर्वशास्त्रतत्त्ववेत्ता परम श्रद्धाभाजनं गोकथाविशारदो गोपालमणिमहाराजः देवतात्मनो हिमगिरेः पाददेशस्ये वादिसीजनपदे लब्धजन्मा धनीरामपण्डितात्मजो रामेश्वरीकुक्षिसम्भूतो महामुनिरयं कृतविद्यो मनस्वी गोभक्तिपरायणस्तथा गोमाहात्म्यप्रकाशकश्च । 'कली गोधेनूनां दुर्दशाहरो गोपालमणिमहाराजः' परमनिर्मत्सराणां सतां स्नेहाशीर्वादधन्यः सुकृतिसम्पन्नः प्रथितयशा धेनुमानसप्रणेता वाग्मिशिरोमणिरिति बहुजनविदितः। अस्य महामतेः कृपापुष्टो नवयुवको ग्रन्थसम्पादको धेनुमानसेति दिव्यग्रन्थस्य सार्विकसंशोधनाय स्वरुचिसम्मतं दायित्वभारमङ्गीकृत्य यथामति यथाशक्ति च धेनुमानसग्रन्यस्य नवीकृतं पूर्णाङ्गपरिमार्जितसंस्करणं रूपायितवान्। निर्भरयोग्यो ग्रन्थसम्पादको होष महामहोपाध्यायो महाव्रतिकृष्णानन्दशाण्डिल्यो ममान्तेवासी। अस्मत्तत्त्वावधाने सातिशयसावधानं गोमातुः प्रसादात् सर्वात्मसमर्पणपूर्वकं यथायथं संशुद्धिसाधनं कृत्वा धेनुमानसस्य दिव्यग्रन्थस्य नवीकृतं परिमार्जितपरिवर्धित संस्करणात्मकं बास्तवग्रन्थकलेवरमत्र प्रकाशितवान्। मानवीयकृतिमात्रं यत्सामान्यतोऽपि दोषदुष्टं भवति। अतोऽस्य ग्रन्थसम्पादकस्यापि परिमार्जितपरिवर्धितमखण्डसंस्करणमिदं स्थलविशेषेषु प्रमादयुक्तं वा भवेत्। विद्यासुन्दरपाठकाः सर्वान् भ्रान्तिदोषान् क्षमयेयुः। अत्रदृष्टदोपानां परवर्तिनि संस्करणे पुनः संशोधनं दायित्ववान् ग्रन्थसम्पादकोऽसौ भगवदनुकम्पया यथाकालं करिष्यतीति प्रत्याशां कुर्मो वयम्। सर्वमङ्गला गोमाता कृपयतु ग्रन्थस्यास्य दायित्वशीलाय सुमतिसम्पन्नाय सम्पादकायेत्यलम् । ॐ तत्सत्।
Hindu (हिंदू धर्म) (12711)
Tantra (तन्त्र) (1023)
Vedas (वेद) (707)
Ayurveda (आयुर्वेद) (1906)
Chaukhamba | चौखंबा (3360)
Jyotish (ज्योतिष) (1466)
Yoga (योग) (1096)
Ramayana (रामायण) (1383)
Gita Press (गीता प्रेस) (733)
Sahitya (साहित्य) (23197)
History (इतिहास) (8267)
Philosophy (दर्शन) (3395)
Santvani (सन्त वाणी) (2590)
Vedanta (वेदांत) (120)
Send as free online greeting card
Email a Friend
Manage Wishlist